संस्कृत-शब्दकोशः

रोष रोष्

रोषण

वाचस्पत्यम्

रोषण ||‍ पु० रष—युच् । १ पारदे, २ निकषप्रस्तरे, मेदि० । ३ उषर- भूमौ ४ क्रोधशीले त्रि० हेमच० ।


शब्दकल्पद्रुमः

रोषणः || पुं, (रोषति तच्छीलः । रुष् + “क्रुध- मण्डार्थेभ्यश्च ।” ३ । २ । १५१ । इति युच् ।)
पारदः । हेमघर्षणोपलः । इति मेदिनी । ने, ७३ ॥ ऊषरभूमिः । क्रोधने, त्रि । इति हेम- चन्द्रः ॥ (यथा, मार्कण्डेये । ११२ । १५ । “न धर्म्मः क्रोधशीलस्य नार्थञ्चाप्नोति रोषणः । नालं सुखाय कामाप्तिः कोपेनाविष्टचेत- साम् ॥”)



Correction: