शब्दकल्पद्रुमः
रोहकः || पुं, (रुह् + ण्वुल् ।) प्रेतभेदः । वोढरि, त्रि । इति मेदिनी । के, १४९ ॥ (यथा, महा- भारते । ८ । ३४ । ३२ । “सिनीवालीमनुमतिं कुहूं राकाञ्च सुव्रताम् । योक्त्राणि चक्रुर्वाहानां रोहकांस्तत्र कण्ट- कान् ॥”)