शब्दकल्पद्रुमः
रोहीतकः || पुं, (रोहीत एव । स्वार्थे कन् ।)
रोहितकवृक्षः । इति राजनिर्घण्टः ॥ (यथा, बृहत्संहितायाम् । ५४ । ६८ । “रोहितकस्य पश्चादहिवासश्चेत्त्रिभिः करै- र्याम्ये ॥” तथास्य पर्य्यायः । “रोहीतको रोहितको रोही दाडिमपुष्पकः ।” इति भावप्रकाशस्य पूर्व्वखण्डे प्रथमे भागे ॥)