वाचस्पत्यम्
रौक्ष्य || न० रूक्षस्य भावः ष्यञ् । १ पारुष्ये २ अचिक्वणतायाञ्च ।
शब्दकल्पद्रुमः
रौक्ष्यं || क्ली (रूक्षस्य भावः । रूक्ष + ष्यञ् ।)
रूक्षता । रूक्षस्य भाव इत्यर्थे ष्ण्यप्रत्ययेन निष्पन्नम् । तथा हि । “तैलं यद्रौक्ष्यदोषघ्नं तैलं यच्चार्द्रकं स्मृतम् । तेन त्वां स्नापयाम्यद्य जगन्मातरमम्बिकाम् ॥” इति दुर्गापूजायां महाष्टमीमहानवम्योर्महा- स्नानप्रकरणे देवीपुराणम् ॥ (तथा च । “ये रसा वातशमना भवन्ति यदि तेषु वै । रौक्ष्यलाघवशैत्यानि न ते हन्युः समीरणम् ॥” इति सुश्रुते सूत्रस्थाने ४० अध्यायः ॥)