वाचस्पत्यम्
रौच्य || पु० । त्रयोदशे मनुभेदे मत्स्यपु० ९ अ० ।
शब्दकल्पद्रुमः
रौच्यः || पुं, (रुचेरपत्यमिति । रुचि + ष्यण् ।)
मनुविशेषः । यथा, —
“रौच्यादयस्तथान्येऽपि मनवः संप्रकीर्त्तिताः । रुचेः प्रजापतेः पुत्त्रो रौच्यो नाम भविष्यति ॥” इति मात्स्ये ९ अध्यायः ॥ तन्मन्वन्तरे देवादयो यथा, —
“त्रयोदशस्य पर्य्याये ये रौच्यस्य मनोः सुराः । सप्तर्षींश्च नृपांश्चैव वदतो मे निशामय ॥ सुपर्व्वाणः सुरास्तत्र सुकर्म्माणस्तथापरे । सुशर्म्माणस्तथा ह्येते समस्ता मुनिसत्तम ॥ महाबलो महाबीर्य्यस्तेषामिन्द्रो दिवस्पतिः । भविष्यत्यथ सप्तर्षीन् गदतो मे निशामय ॥ धृतिमानव्ययश्चैव तत्त्वदर्त्ती निरुत्सुकः । निर्म्मोहः सुतपाश्चान्यो निष्मकम्पश्च सप्तमः ॥ चित्रसेनो विचित्रश्च नयकृन्निर्भयो दृढः । सुनेत्रः क्षत्त्रबुद्धिश्च सुरतश्चैव तत्सुताः ॥” इति मार्कण्डेयपुराणम् ॥ अन्यद्विवरणं रुचिशब्दे द्रष्टव्यम् ॥ * ॥
विल्व- काष्ठदण्डः । तत्पर्य्यायः । वैल्वः २ । इति हेम- चन्द्रः ॥ (क्ली, रौच्यस्येदमिति । अण् । मन्वन्तर- विशेषः । यथा, मार्कण्डेये । १०० । ३९ । “ज्ञातिश्रेष्ठो गुणैर्युक्तो दक्षसावर्णिके श्रुते । निशातयत्यरिबलं रौच्यं श्रुत्वा नरोत्तमः ॥”)