संस्कृत-शब्दकोशः

रौद्र रौप्य

रौद्री

शब्दकल्पद्रुमः

रौद्री || स्त्री (रौद्र + ङीप् ।)
चण्डी । इति मेदिनी । रे, ८० ॥ रुद्रजटा । इति राजनिर्घण्टः ॥ रुरुदैत्यकृतमहारौद्री माया महारौद्रीनाम्नी चामुण्डा च । यथा, —
“एक एव महादैत्यो रुरुस्तस्थौ महामृधे । स च मायां महारौद्रीं रौरवीं विससर्ज्ज ह ॥ सा माया ववृधे भीमा सर्व्वदेवप्रमोहिनी । तया तु मोहिता देवाः सद्यो निद्रां तु भेजिरे ॥ देवी च त्रिशिखेनाजौ तं दैत्यं समताडयत् । तया तु ताडितं तस्य दैत्यस्य शुभलोचने । चर्म्ममुण्डे उभे सम्यक् पृथग्भूते बभूवतुः ॥ रुरोस्तु दानवेन्द्रस्य चर्म्ममुण्डे क्षणाद्यतः । अपहृत्य हरेद्देवी चामुण्डा तेन साभवत् ॥ सर्व्वभूतमहारौद्री या देवी परमेश्वरी । संहारिणी तु या चैव कालरात्रिः प्रकीर्त्तिता ॥” इति वाराहे त्रिशक्तिमाहात्म्यम् ॥



Correction: