संस्कृत-शब्दकोशः

रौद्री रौम

रौप्य

वाचस्पत्यम्

रौप्य ||‍ न० रूप्यमेव अण् । रजते राजनि० ।


शब्दकल्पद्रुमः

रौप्यं || क्ली (रूप्यमेव । अण् ।)
रूप्यम् । इति राजनिर्घण्टः ॥ (यथा, माधे । ४ । ६७ । “दर्पणनिर्म्मलासु पतिते घनतिमिरमुषि ज्योतिषि रौप्यभित्तिषु पुरः प्रतिफलति मुहुः ॥”)
तत्करणं यथा, —
“मध्वाज्यं गुडताम्रञ्च करेणा माक्षिकं रसम् । घमनाच्च भवेद्रौप्यं सुवर्णकरणं शृणु ॥” इति गारुडे १८८ अध्यायः ॥ (औषधादिषु अस्यालाभे यद्दातव्यं तद्तथा, —
“सुवर्णमथवा रौप्यं मृतं यत्र न लभ्यते । तत्र कान्तेन कर्म्माणि भिषक् कुर्य्याद्विचक्षणः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥ तद्विशिष्टे, त्रि । यथा, भागवते । ४ । २५ । १४ । “स्वर्णरौप्यायसैः शृङ्गैः सङ्कुलां सर्व्वतो गृहैः ॥”)



Correction: