संस्कृत-शब्दकोशः

रौमलवण रौहिण

रौरव

वाचस्पत्यम्

रौरव ||‍ पु० रोरूयतेऽत्र रु—यङ् क्विप् तेन प्राप्यः तस्मायं वा अण् । १ नरकभेदे अमरः । २ चञ्चले, ३ धूर्त्ते, ४ क्षोरे च त्रि० शब्दर० । ५ सामभेदे न० । तच्च साम अहगाने ३ प्र० दर्शितम् । “रौरवयौधाजये वार्हते तृचे भवतः” ता० ब्रा० । रौरवनरकस्वरूपादिकमुक्तं मार्कपु० १० अ० “रौरवे कूटसाक्षी तु याति यूतानृतो नरः । तस्य स्व- रूपं गदतो रौरवस्य निशामप । योजनानां सहस्वे द्वे रौरवो हि प्रमाणतः । जानुमात्रप्रमाणश्च ततः श्वभ्रः सुदुस्तरः । तत्राङ्गारचयोपेतं कृतञ्च धरणीतलम् । जाज्वल्यमानन्तीव्रेण तापिताङ्गारभूमिगम् । तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुमाः । स दह्यमानस्तीव्रेण वह्निना तत्र धावति । वदे पदे च पादोऽस्य शीर्य्यते जीर्यते पुनः । अहोरात्रेणोद्धरणं पादग्यासं च गच्छति । एवं सहस्रं विस्तीर्णे योजनानां विपच्यते” ।


शब्दकल्पद्रुमः

रौरवः || त्रि चञ्चलः । धर्त्तः घोरः । इति शब्द- रत्नावली ॥ (रुरोर्मृगस्येदमिति । अण् । मृग- सम्बन्धिनि च । यथा, मनुः । २ । ४१ । “कार्ष्णरौरववास्तानि चर्म्माणि ब्रह्मचारिणः । वसीरन्नानुपूर्व्वेण शाणक्षौमाविकानि च ॥”)


शब्दकल्पद्रुमः

रौरवः || पुं, (रुरुर्ज्जन्तुविशेषस्तस्यायमिति । रुरु + अण् ।)
नरकविशेषः । घोरः । इति मेदिनी । वे, ४९ ॥ आद्यस्य विवरणं यथा, —
“रौरवे कूटसाक्षी तु याति यश्चानृती नरः । तस्य स्वरूपं वदतो रौरवस्य निशामय ॥ योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः । जानुमात्रप्रमाणन्तु तत्र श्वभ्रं सुदुस्तरम् ॥ तत्राङ्गारचयो येन कृतं तद्धरणीसमम् । जाज्वल्यतातितीव्रेण तापिताम्बरभूमिना ॥ तन्मध्ये पापकर्म्माणं विमुञ्चन्ति यमानुगाः । स दह्यमानस्तीव्रेण वह्निना तेन धावति ॥ पदे पदे च पादोऽस्य शीर्य्यते जायते पुनः । अहोरात्रेणोद्धरणं पादन्यासं स गच्छति । एवं सहस्रं विस्तीर्णे योजनानां विमुच्यते ॥” इति मार्कण्डेयपुराणे पितापुत्त्रसंवादनामा- ध्यायः ॥ (तथाच देवीभागवते । ८ । २२ । ८-११ । “एतन्ममाहमिति यो भूतद्रोहेण केवलम् । पुष्णाति प्रत्यहं स्वीयकुटुम्बं कार्य्यलम्पटः ॥ एतद्विहाय चात्रैव स्वाशुभेन पतेदिह । रौरवे नाम नरके सर्व्वसत्त्वभयावहे ॥ इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा । त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ॥ तस्माद्रौरवमित्याहुः पुराणज्ञा मनिषिणः । रुरुः सर्पादपि क्रूरो जन्तुरुक्तः पुरातनैः ॥”)



Correction: