संस्कृत-शब्दकोशः

रौहिणेय रौहिषी

रौहिष

वाचस्पत्यम्

रौहिष ||‍ न० रुह—इषन् स्वार्थेऽण् । १ कत्तृणे मेदि० २ मृगभेदे पुंस्त्री० अमरः । ३ रोहितमत्स्वे च अजयपा० । ४ दूर्वायां, ४ रोहितमृम्याञ्च स्त्री ङीप् । इति श्रीतारानाथतर्कवाचस्पतिभट्टाचार्य्य सङ्कलिते वाचस्पत्ये रकारादि- शब्दार्थसङ्कलनम् ।


शब्दकल्पद्रुमः

रौहिषं || क्ली (रोहतीति । रुह् + “रुहेर्वृद्धिश्च ।” उणा० १ । ४८ । इति टिषच् । वृद्धिश्च धातोः ।)
कत्तृणम् । इत्यमरः ॥ रोहिषतृणम् । इति राजनिर्घण्टः ॥ तन्नामगुणाः । “कत्तृणं रौहिषं देवजग्धं सौगन्धिकं तथा । भूतीकं ध्याम पौरञ्च श्यामकं धूपगन्धिकम् ॥ रौहिष तुवरं तिक्तं कटुपाकं व्यपोहति । हृत्कण्ठव्याधिपित्तास्रशूलकासकफज्वरान् ॥” इति भावप्रकाशः ॥ * ॥
अन्यत् कत्तृणशब्दे द्रष्टव्यम् ॥


शब्दकल्पद्रुमः

रौहिषः || पुं, (रुह् + टिषच् । वृद्धिश्च धातोः ।)
मृगविशेषः । इत्यमरः ॥ रोहितमत्स्यः । इत्य- जयपालः ॥



Correction: