वाचस्पत्यम्
लकारो || व्यञ्जनवर्णभेदः । तस्योच्चारणस्थानं दन्तमूलम् । स्पर्शोष्मवर्णयोर्मध्यस्थत्वादयमन्तःस्थवर्णः । अस्योच्चारणे आभ्यन्तरप्रयत्नः जिह्वाग्रेण दन्तमूलस्य ईषत्स्पर्शस्ते- नास्य ईषत्स्पष्टता । बाह्यप्रयत्नाश्च संवारनादघोषाः अल्पप्राणश्च । मातृकाग्यासेऽस्य ककुदि न्यस्यता । काव्यादौ प्रथमप्रयोगे व्यसनं फलम् । “व्यसनमथ लवौ” वृ० र० टी । तस्व स्वरूपं यथा “अकारं चञ्चलापाङ्गि! कुण्डली- त्रयसंयुतम् । पीतविद्युल्लताकारं सर्वरत्नप्रदायकम् । पञ्चदेवमयं वर्णं पञ्चप्राणमयं सदा । त्रिशक्तिसहितं वर्णं त्रिविन्दुसहितं सदा । आत्मादिसहितं वर्णं हृदि- भावय पार्वति” कामर्धनुतन्त्रम् । तत्पर्य्याया वर्णाभिधाने उक्ता यथा “लश्चन्द्रः पूतना पृथ्वी माधवी शक्रवाचकः । बलानुजः पिनाकीशो व्यापको मांससंज्ञकः । परायणा ककुद्वक्त्रः खड्गी नादोऽमृतं दिवि । लवणं वारुणी- पीतशिखा वाणी क्रियाऽजिता । ज्वालिनी वेगिनी- नादः प्रद्युम्नः शोषणो हरिः । विशातन्द्रायखी चेतो मेरुर्गिरि कलोरसः” । तस्याधिष्ठातृध्येयरूपं यथा चतुर्भुजां पीतवस्त्रां रक्तपङ्कजलोचनाम् । सर्वदा वरदां भीमां सर्वालङ्कारभूषिताम् । योगीन्द्रसेवितां नित्यं योगिमीं योगरूपिणीम् । चतुर्वर्गप्रदां देवीं नाग- हारोपशोभिताम् । एवं ध्यात्वा लकारन्तु तन्मन्त्रं दशधा जपेत्” वर्णोद्धारतन्त्रम् ।