संस्कृत-शब्दकोशः

लक्ष लक्षण

लक्षक

वाचस्पत्यम्

लक्षक ||‍ त्रि० लक्षयति लक्षणयार्थम् लक्ष—ण्वुल् । लक्षण- यार्थबोधके शब्दे । तल्लक्षणं श० प्र० उक्तं यथा “यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् । तत्र तद्ध- क्षकं नाम तच्छक्तिविधुरं यदि” । “यादृशार्थसम्बन्धवति यन्नाम सङ्केतितं तदेव तादृशार्थे लक्षकं यदि तादृशार्थे शक्तिशून्यं भवेत् । सैन्घवादयश्च शब्दास्तुरगादिसम्बन्धिनि लवणादाविव तुरगादावपि शक्ता एव । गङ्गादयस्तु ती- रादावसङ्केतिताः तत्सम्बन्धिनीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोधयन्तीति तत्र लक्षका एव शक्तत्वे पूर्वपूर्वप्रयुक्तत्वापत्तेः तस्य तद्व्याप्यत्वात् कथञ्चित्तीरा- दिसम्बन्धित्वेन गृहीतादपि गङ्गादिपदात्तीरादेरन्वय- बोधेन तीराद्यशक्तत्व सति तत्सम्बन्धितामात्रन्त न लक्षणा गङ्गागङ्गायां घोष इत्यादावपि गङ्गागङ्गाति- भागस्य निरुक्तलक्षणायाः सत्त्वेन वैयर्थ्याभावप्रसङ्गाच्च । एतेन तीराद्यशक्तत्वे सति तीरादिपरत्वं तीरादि सम्बन्ध्यनुभावकत्वं वा तल्लक्षकत्वमित्यपि प्रत्युक्तम् अपभ्रंशस्यापि लक्षकत्वापाताच्च नचेष्टापत्तिः शक्तिल- क्षणान्यतरवृत्तिमत्त्रे तस्य साधुतापत्तेः पदसाधुतायां वृत्तिमत्त्वस्यैव तन्त्रत्वात् । किञ्चानुभावकत्वं तदा घो- षादिपदसाकाङ्क्षस्य गङ्गादिपदस्य तीरलक्षकता न स्यात् तेन तोरसम्बन्धिनो नीरस्यानुभवानर्ज्जनात् स्वरूपयो- ग्यत्वन्तु सङ्गायामिति वाक्यस्य दुर्वारं तस्याप्याधेयता- धमिकनीरानुभवं प्रति नीरार्थकनामोत्तर सप्तमीत्वेन तथात्वात् नीराधेयत्वस्य च तीरसम्बन्धित्वानपायात् ।” अधिकं लक्षणशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

लक्षकं || क्ली (लक्षयतीति । लक्ष + ण्वुल् ।)
लक्षयति यत् । यथा । लक्षकं नाम लक्षयति । “यादृशार्थस्य सम्बन्धवति शक्तन्तु यद्भवेत् । तत्र तल्लक्षकं नाम तच्छक्तिविधुरं यदि ॥” यादृशार्थसम्बन्धवति यन्नाम सङ्केतितं तदेव तादृशार्थे लक्षकं यदि तादृशार्थे शक्तिशून्यं भवेत् । सैन्धवादयस्तु शब्दाः तुरगादिसम्ब- न्धिनि लवणादाविव तुरगादावपि शक्ता एव । गङ्गादयस्तु तीरादावसङ्केतिताः तत्सम्बन्धि- बीरादिशक्तत्वेन गृहीता एव तीराद्यन्वयं बोध- यन्ति तत्र लक्षका एव । अपि च । तदेवं विधलक्षणावत्त्वाल्लक्षकं नामापि जहत्- स्वार्थादिभेदादनेकविधमित्यर्थः स्यादेतद्यदि तीरादिलक्षकतया गङ्गादिपदस्य ज्ञानं तीरा- द्यनुभवे भवेद्धेतुस्तदोक्तक्रमेण लक्षकाणां विभागो न त्वेतदस्ति । तीराद्यन्वयबोधं प्रति तीरादिशक्तत्वेनैव पदज्ञानस्य लाघवेन हेतु- तया लक्षकाणामननुभावकत्वात् गुरूणामग्नौ शैत्यं स्पृशेदित्यादौ शक्येन दहनादिनेव गङ्गायां घोष इत्यादौ लक्षितेन तीरादिना सार्द्धम- गृहीतासंसर्गकस्यैव सप्तम्यर्थाधेयत्वान्वयबोध- प्रविष्टत्वादिति चेन्न । प्रकृत्यर्थावच्छिन्नस्यैव प्रत्य- यार्थस्य धर्म्म्यन्तरेऽन्वयबुद्धेर्व्व्युत्पन्नतया तीराद्य- विशेषितस्य सुबर्थाधेयत्वादेर्घोषादावन्वयबोधा- योगात् । न च शक्तस्यैव पदस्य स्वसाकाङ्क्ष- पदान्तरोपस्थाप्यार्थान्वितस्वार्थधर्म्मिकान्वय- बोधं प्रति हेतुत्वादन्वयबुद्धौ लक्षार्थस्य प्रवेशः । कुन्ताः प्रविशन्तीत्यादौ लक्ष्यस्य कुन्तधरादेर- न्वयविशेष्यत्वानुपपत्तेः । कुमतिः पशुरित्यादौ लक्षार्थयोर्म्मिथोऽन्वयबोधस्याप्यनुभविकत्वाच्च । तस्मात् शक्तेरिव भक्तेरपि ज्ञानमनुभावकं भव- त्येव कार्य्यतावच्छेदकस्य सङ्कोचाच्च न व्यभि- चारः । इति शब्दशक्तिप्रकाशिका ॥



Correction: