वाचस्पत्यम्
लक्ष्मीजनार्द्दन || न० शालग्रामभेदे । तस्य लक्षणं यथा “एक- द्वारे चतुसक्रं नवीननीरदोपमम् । लक्ष्मीजनार्द्दनं ज्ञेयं रहितं वनमालया” ब्रह्मवै० प्र० ।
शब्दकल्पद्रुमः
लक्ष्मीजनार्द्दनः || पुं, (लक्ष्म्याः सहितो जनार्द्दनः ।)
शालग्रामविशेषः । तस्य लक्षणं यथा, —
“एकद्वारे चतुश्चक्रं नवीननीरदोपमम् । लक्ष्मीजनार्द्दनो ज्ञेयो रहितो वनमालया ॥” इति ब्रहम्वैवर्त्ते प्रकृतिखण्डम् ॥ (तथा, देवीभागवते । ९ । २४ । ५९ ॥)