संस्कृत-शब्दकोशः

लक्ष्मीजनार्दन लक्ष्मीनारायण

लक्ष्मीताल

शब्दकल्पद्रुमः

लक्ष्मीतालः || पुं, (लक्ष्मीयुक्तस्तालः ।)
श्रीताल- वृक्षः । इति राजनिर्घण्टः ॥ तौर्य्यत्रिकस्य परिच्छेदविशेषः । तस्य द्रुतलघ्वणुविरामक्रमो यथा, —
“दौ लो णू द्बौ विरामान्तौ दलौ णू दविरा- मकः । विरामान्तौ द्रुतौ लश्च द्रुतौ लघुविरामकः ॥” इति सङ्गीतरत्नाकरे लक्ष्मीतालः ॥



Correction: