संस्कृत-शब्दकोशः

लक्ष्मीफल लक्ष्मीवेष्ट

लक्ष्मीवत्

वाचस्पत्यम्

लक्ष्मीवत् ||‍ पु० लक्ष्मीः शोभास्त्यस्य मतुप् मस्य वः । १ पनसे शब्दच० । २ श्रीयुक्ते त्रि० अमरः स्त्रियां ङीप् । ३ श्वेतरीहितकवृक्षे पु० राजनि० ।


शब्दकल्पद्रुमः

लक्ष्मीवान् || [त्] त्रि, (लक्ष्मीरस्त्यत्रेति ।)
श्रीयुक्तः । धनवान् । तत्पर्य्यायः । लक्ष्मणः २ श्रीलः ३ श्रीमान् ४ । इत्यमरः ॥ (यथाह कश्चित् । “शेषे धराभराक्रान्ते शेषे विश्वम्भरः श्रिया । लक्ष्मीवन्तो न पश्यन्ति दुःसहां परवेदनाम् ॥”)


शब्दकल्पद्रुमः

लक्ष्मीवान् || [त्] पुं, (लक्ष्मीः शोभास्त्यस्येति । मतुप् । मस्य वः ।)
पनसवृक्षः । इति शब्द- माला ॥ श्वेतरोहितवृक्षः । इति राजनिर्घण्टः ॥ (विष्णुः । यथा, महाभारते । १३ । १४९ । ५२ । “सर्व्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥”)



Correction: