वाचस्पत्यम्
लग || खञ्जीभावे अक० गतौ सक० भ्वा० प० सेट । लङ्गति अलङ्गीत
वाचस्पत्यम्
लग || सङ्गे भ्वा० पर० सक० सेट् । लगति एदित् अलगीत् घटा० लगयति । “छायेव तस्या लगति स्म पश्चात्” नैष० ।
वाचस्पत्यम्
लग || स्वादे प्रप्तौ च सक० चु० उभ० सेट् । लागयति ते अली लगत् त ।
शब्दकल्पद्रुमः
लग || इ खञ्जे । गतौ । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-खञ्जे अक०-गतौ सक०-सेट् ।)
इ, लङ्ग्यते । खञ्जो गतिवैकल्यम् । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
लग || क रके । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
क, लागयति । रके स्वादाप्त्योः । रके इति रक क स्वाद आपने । इत्यस्य ञेरनित्यत्वे भावे अलि रूपम् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लग || म ए सङ्गे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
म, लगयति । ए, अल- गीत् । गलति अधर ओष्ठे । इति दुर्गादासः ॥