संस्कृत-शब्दकोशः

लगित लगुर

लगुड

वाचस्पत्यम्

लगुड(ल)(र) ||‍ पु० लग—उलच् लस्य डरौ वा । दण्डाकारे काष्ठनिर्मिते पदार्थे (लाटी) अमरः ।


शब्दकल्पद्रुमः

लगुडः || पुं, दण्डः । लाठी इति भाषा । इत्यमरः ॥ लगुडो वंशादिमयो दण्डः । लोहमयोऽस्त्रभेदः । इति सुभूतिः । लगुडो लोहमयी यष्टिरन्यत्रो- पचारादित्यन्ये । इति तट्टीकायां भरतः ॥ (अस्याकृतिपरिमाणादि यथा, शुक्रनीतौ । “लगुडः सूक्ष्मपादः स्यात् पृथ्वंशः स्थूलशीर्षकः । लौहबद्धाग्रभागश्च ह्नस्वदेहः सुपीवरः ॥ दण्डाकारो दृढाङ्गश्च तथा हस्तद्बयोन्नतः । उत्थानं पातनञ्चैव पेषणं पोथनं तथा ॥ चतस्रो गतयस्तस्य पञ्चमी नेह विद्यते । दृढकायः पत्तिवर्गो तेन युध्येत शत्रुभिः ॥”)



Correction: