वाचस्पत्यम्
लग्न || न० लस्ज—क्त तस्य नः । १ मेषादिराशीनामुदये अमरः । २ लज्जिते त्रि० । लग—क्त पृषो० । ३ संसक्तके त्रि० । ४ स्तुतिपाटके पु० त्रिका० । लग्न इव इवार्थे कन् । ५ प्रतिभुवि । (जामिन) “खादको वित्तहीनः स्यात् लग्नको वित्तवान् यदि” इति स्मृतिः । मेषादिराश्युदय- रूपलग्नपदार्थस्य देशभेदे कालमानं खगोलशब्दे २४५२ । ५३ पृ० दर्शितम् । इष्टकाले लग्नसाधनञ्च ३८०२ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
लग्नं || क्ली (लगति फले इति । लग सङ्गे + “क्षुब्ध- स्वान्तध्वान्तलग्नेति ।” ७ । २ । १८ । इति निपातनात् साधु ।)
राशीनामुदयः । इत्यमरः ॥ राति फलं राशिस्तालव्यशकारः । अहोरात्र- मध्ये द्वादशराशय उदयन्ति । उदयः पूर्ब्बा- चलसंयोगः । तेषां क्रमेण उदयाचलसंयोगो लग्नं ओ लसजी व्रीडे ओदित्वान्नः निपातना- ज्जस्य गः । इति तट्टीकायां भरतः ॥ तेषां शून्यायनांशपरिमाणं यथा, —
“रामोऽगवेदै -३ । ४७ र्जलधिस्तु मैत्रै -४ । १७ र्व्वाणो रसैः ५ । ६ पञ्च खसागरैश्च ५ । ४० । वाणः कुवेदै -५ । ४१ र्विषयोऽङ्कयुग्मैः ५ । २९ क्रमोत्क्रमान्मेषतुलादिमानम् ॥” तथा हि । मेषस्य ३ । ४७ ॥ तुलायाः ५ । २९ ॥ वृषस्य ४ । १७ ॥ वृश्चिकस्य ५ । ४१ ॥ मिथुनस्य ५ । ६ ॥ धनुषः ५ । ४० ॥ कर्क्कटस्य ५ । ४० ॥ मकरस्य ५ । ६ ॥ सिंहस्य ५ । ४१ ॥ कुम्भस्य ४ । १७ ॥ कन्यायाः ५ । २९ ॥ मीनस्य ३ । ४७ ॥ इति दीपिका ॥ * ॥
दशव्यङ्गुलाधिकपञ्चाङ्गुल- प्रभे कलिकाताख्यदेशे वर्त्तमानोनविंशायनांशे प्रामाणिककारिका यथा, —
“वेदोऽङ्गैः । ४ । ६ सोऽन्तवेदै ४ । ४८ रिषुरगन- यनैः ५ । २७ सोऽन्तरीक्षाम्बुनाथैः ५ । ४० । पारावाराश्रयासै -५ । ३४ र्गगनगनयनैः ५ । २९ षट्त्रिभि -५ । ३६ श्चन्द्रवेदैः ५ । ४१ । अङ्कक्ष्माभिः ५ । १९ समुद्रोऽसुशुचिभि -४ । ३५ रनलोऽष्टेषुभिः ३ । ५८ सोऽगवेदै -३ । ४७ । र्मेषादेकोनविंशे गणितपरिगतं मानमत्रा- यनांशे ॥” * ॥
उदयलग्नास्तलग्नयोर्दिनं प्रति रविभोग्यं यथा, “लग्नदण्डपलं द्विघ्नं तत्संख्यं क्रमतः पलम् । विपलञ्च रवेर्भोग्यमेवं कल्पनमस्तभे ॥” इति ज्योतिषम् ॥ एतयोर्विवरणं यथा, — तत्र प्राचीनलग्नमानम् । लग्नाः दिनमुक्तम् । मासभुक्तम् । यथा पलम् । विपलम् । दण्डः । पलम् । १ मेषः । ७ । ३४ ॥ ३ । ४७ ॥ २ वृषः । ८ । ३४ ॥ ४ । १७ ॥ ३ मिथुनम् । १० । १२ ॥ ५ । ६ ॥ ४ कर्कटः । ११ । २० ॥ ५ । ४० ॥ ५ सिंहः । ११ । २२ ॥ ५ । ४१ ॥ ६ कन्या । १० । ५८ ॥ ५ । २९ ॥ लग्नाः दिनभुक्तम् । मासभुक्तम् । यथा पलम् । विपलम् । दण्डः । पलम् । ७ तुला । १० । ५८ ॥ ५ । २९ ॥ ८ वृश्चिकः । ११ । २२ ॥ ५ । ४१ ॥ ९ धनुः । ११ । २० ॥ ५ । ४० ॥ १० मकरः । १० । १२ ॥ ५ । ६ ॥ ११ कुम्भः । ८ । ३४ ॥ ४ । १७ ॥ १२ मीनः । ७ । ३४ ॥ ३ । ४७ ॥ तत्र स्वदेशाधुनिकलग्नमानम् । लग्नाः दिनभुक्तम् । मासभुक्तम् । यथा पलम् । विपलम् । दण्डः । पलम् । १ मेषः । ८ । १२ ॥ ४ । ६ । २ वृषः । ९ । ३६ ॥ ४ । ४८ ॥ ३ मिथुनम् । १० । ५४ ॥ ५ । २७ ॥ ४ कर्कटः । ११ । २० ॥ ५ । ४० ॥ ५ सिंहः । ११ । ८ ॥ ५ । ३४ ॥ ६ कन्या । १० । ५८ ॥ ५ । २९ ॥ ७ तुला । ११ । १२ ॥ ५ । ३६ ॥ ८ वृश्चिकः । ११ । २२ ॥ ५ । ४१ ॥ ९ धनुः । १० । ३८ ॥ ५ । १९ ॥ १० मकरः । ९ । १० ॥ ४ । ३५ ॥ ११ कुम्भः । ७ । ५६ ॥ ३ । ५८ ॥ १२ मीनः । ७ । ३४ ॥ ३ । ४७ ॥ अथ जन्मकालीनलग्नस्थग्रहसूचितफलम् । “लग्ने सूर्य्येऽक्षिरोगी शशिनि बलयुतो रूपवान् वित्तयुक्तो भौमे व्यङ्गः सुवाग्मी शशधरतनये सर्व्व- शास्त्रार्थवेत्ता । जीवे दाता पवित्रः सुकविरथ गते भार्गवे मण्डलेशः सौरौ कण्डूतिगात्रस्तमसि च नियतं वञ्चितो धर्म्महीनः ॥” इति ज्योतिस्तत्त्वम् ॥ * ॥
अपि च । हरिरुवाच । “उदयन्तु समारभ्य राशौ भानुः स्थितो हर । स्वराश्यादौ व्रजेदह्रि षड्भिः षड्भिस्तथा निशाम् ॥ मीने मेषे च पञ्च स्युश्चतस्रो वृषकुम्भयोः । मकरे मिथुने तिस्रः पञ्च चापे च कर्कटे ॥ सिंहे च वृश्चिके षट् च सप्त कन्या तुले तथा । एता लग्नप्रमाणेन घटिकाः परिकीर्त्तिताः ॥ शरपूर्ब्बावशानेषुरसाब्धीष्वधिसागराः । लङ्कोदया हि है वस्तुं लग्ना मेषादयोऽथवा ॥ मेषलग्ने भवेद्वन्ध्या वृषे भवति कामिनी । मिथुने सुभगा कन्या वेश्या भवति कर्कटे ॥ सिंहे चैवाल्पपुत्त्रा च कन्यायां रूपसंयुता । तुलायां रूपमैश्वर्य्यं वृश्चिके कर्कशा भवेत् ॥ सौभाग्यं धनुषि स्याच्च मकरे नीचगामिनी । कुम्भे चैवाल्पपुत्त्रा स्यान्मीने वैराग्यसंयुता ॥ तुला कर्कटको मेषो मकरश्चैव राशयः । चरकार्य्याणि कुर्य्याच्च स्थिरकार्य्याणि चैव हि ॥ पञ्चाननो वृषः कुम्भो वृश्चिकः स्युः स्थिराणि हि । कन्या धनुश्च मीनश्च मिथुनं द्विस्वभावतः ॥ द्विस्वभावानि कर्म्माणि कुर्य्यादेषु विचक्षणः । यात्रा चरेण कर्त्तव्या प्रवेष्टव्यं स्थिरेण तु । देवस्थापनवैवाह्यं द्विस्वभावेन कारयेत् ॥” इति गारुडे ६२ अध्यायः ॥
शब्दकल्पद्रुमः
लग्नः || त्रि (लस्ज + क्तप्रत्ययेन साधुः ।)
सक्तः । लज्जितः । इति मेदिनी ॥
शब्दकल्पद्रुमः
लग्नः || पुं, (लग् + क्तः । निपातनात् साधुः । यद्वा, लस्ज + क्तः । “ओ लस्जी । लग्नः लग्नवान् । लस्जेरोदनुबन्धबलादिडभावे नत्वं स्यात् ।” इति कृत्षष्ठे दुर्गसिंहः ।)
स्तुतिपाठकः ॥ तत्पर्य्यायः । प्रातर्गेयः २ स्तुतिव्रतः ३ । इति त्रिकाण्डशेषः ॥ सूतः ४ । इति जटाधरः ॥