वाचस्पत्यम्
लघुकाय || पुंस्त्री० लघुः कायो यस्य । १ छागे त्रिका० स्त्रियां योपधत्वात् टाप् । कर्म० । २ क्षुद्रशरीरे पुंन० ।
शब्दकल्पद्रुमः
लघुकायः || पुं, (लघुः कायो यस्य ।) छागः । इति त्रिकाण्डशेषः ॥ क्षुद्रशरीरश्च ॥