शब्दकल्पद्रुमः
लघुगणः || पुं, (लघुर्गणः ।) अश्विनीपुष्यहस्तनक्ष- त्राणि । यथा, — “उग्रः पूर्व्वमघान्तका घ्रुवगणस्त्रीण्युत्तराणि स्वभू- र्व्वातादित्यहरित्रयं चरगणः पुष्याश्विहस्ता लघुः ॥” इति दीपिका ॥