वाचस्पत्यम्
लघुदन्ती || स्त्री कर्म० । क्षुद्रदन्तीवृक्षे । “दन्तीद्वयं सरं पाके रसे च कटुदीपनम् । गुदाङ्कुराश्म शूलास्रकण्डूकुष्ठविदाहनुत् । तीक्ष्णास्नं हन्ति पि- त्तास्रं कफशोथोदरक्रिमीन्” “क्षुद्रदन्तीफलन्तु स्यान्म- धुरं रसपाकयोः । शीतलं सृष्टविण्मूत्रं गलशोथ कफापहम्” भावप्र०
शब्दकल्पद्रुमः
लघुदन्ती || स्त्री (लघुः क्षुद्रा दन्ती ।)
क्षुद्रदन्ती- वृक्षः । यथा, —
“लघ्वी दन्ती विशल्या च स्यादुडम्बरपर्ण्यपि । तथैरण्डफला शीघ्रा श्येनघण्टा घुणप्रिया । वराहाङ्गी च कथिता निकुम्भश्च मकूलकः ॥” अस्या गुणाः । “दन्तीद्वयं सरं पाके रसे च कटु दीपनम् । गुदाङ्कुराश्मशूलास्रकण्डूकुष्ठविदाहनुत् ॥ तीक्ष्णोष्णं हन्ति पित्तास्रकफशोथोदरक्रिमीन् ॥” इति भावप्रकाशः ॥ तत्फलगुणाः । “क्षुद्रदन्तीफलन्तु स्यान्मधुरं रसपाकयोः । शीतलं सृष्टविण्मूत्रं गलशोथकफापहम् ॥” इति भावप्रकाशः ॥