शब्दकल्पद्रुमः
लघुपञ्चमूलं || क्ली (लघु क्षुद्रं पञ्चमूलम् ।)
क्षुद्र- पञ्चमूलपाचनम् । तत्तु शालपर्णीपृश्निपर्णी- बृहतीकण्टकारीगोक्षुरसंयुक्तम् । यथा, —
“शालपर्णी पृश्निपर्णी वार्त्ताकी कण्टकारिका । गोक्षुरः पञ्चभिश्चैतैः कनिष्ठं पञ्चमूलकम् ॥” अस्य गुणाः । “पञ्चमूलं लघु स्वादु बल्यं पित्तानिलापहम् । नात्युष्णं बृंहणं ग्राहि ज्वरश्वासाश्मरीप्रणुत् ॥” इति भावप्रकाशः ॥