वाचस्पत्यम्
लघुपत्रक || पु० लघूनि ह्रस्वानि पत्राण्यस्य कप् । (गुडारो- चना) लताभेदे शब्द च० । कब भावे ङीप् । लघुपत्री स्त्री २ अश्वत्थवृक्षे राजनि० ।
शब्दकल्पद्रुमः
लघुपत्रकः || पुं, (लघूनि पत्राणि यस्य । कप् ।)
रोचनी । शुण्डारोचनी इति ख्यातः । इति शब्दचन्द्रिका ॥