शब्दकल्पद्रुमः
लघुहस्तः || पुं, (लघुः क्षिप्रकारी हस्तो यस्य ।)
शीघ्रवेधी । इति हेमचन्द्रः । ३ । ४३१ ॥ (वाच्यलिङ्गोऽपि । यथा, कथासरित्मागरे । ४२ । १३३ । “स राजपुत्त्रश्छित्त्वैव रक्षसस्तस्य तच्छिरः । भूयः खड्गप्रहारेण लघुहस्तो द्विधाकरोत् ॥” यथा च । “तत्त्वाधिगतशास्त्रार्थो दृष्टकर्म्मा स्वयं कृती । लघुहस्तः शुचिः शूरः सज्जोपस्करभेषजः ॥ प्रत्युत्पन्नमतिर्धीमान् व्यवसायी विशारदः । सत्यधर्म्मपरो यश्च स भिषक् पाद उच्यते ॥” इयि सुश्रुते सूत्रस्थाने ३४ अध्यायः ॥)