वाचस्पत्यम्
लङ्कास्थायिन् || पु० लङ्कायां तिष्ठति स्था णिनि । (लङ्कासिज) वृक्षभेदे शब्दच० । २ लङ्कावासिनि त्रि० ।
शब्दकल्पद्रुमः
लङ्कास्थायी || [न्] पुं, (लङ्कावत् तिष्ठतीति । स्था + णिनिः ।)
वृक्षविशेषः । लङ्कासिज इति भाषा । यथा, —
“लङ्कास्थायी राजवृक्षो भद्रचूडो विशायकः ।” इति शब्दचन्द्रिका ॥ (लङ्कायां तिष्ठतीति ।)
लङ्कावासिनि, त्रि ॥