संस्कृत-शब्दकोशः

लङ्गूल लच्छ

लङ्घन

वाचस्पत्यम्

लङ्घन ||‍ न० लघि० ल्युट् । १ अभोजने, २ अतिक्रम्य गमने, ३ क्रमणे, ४ प्लवने च मेदि० । ५ कर्षणे च भावप्र० लङ्घनस्य लक्षणस्वरूपगुणादिकमुक्तं यथा “ज्वरी लङ्घनं कुर्य्यादित्याह चरको वाग्भटश्च “आमा- शयस्थो हत्वाग्निं सामो मार्गान् पिधापयन् । विद- धाति ज्वरं दोषस्तस्माल्लङ्घनमाचरेत्” । तथा “ज्वरादौ लङ्घनं प्रोक्तं ज्वरमध्ये तु पाचनम् । ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् । त्रिविधं त्रिविधे दोषे तत्समीक्ष्य प्रयीजयेत् । दोषोऽपि लङ्घनं पथ्यं मध्ये लङ्घनपाचनम् । प्रभूते शोधनं तच्च मूलादुन्मूलयेन्म- लान्” । चक्रदत्तश्च “तरुणं तु ज्वरं पूर्वं लङ्घनेन क्षयं नयेत् । आमदोषमलिङ्गाद्वा लङ्घयेत्तं यथाविधि । वातः पचति सप्ताहात् पित्तन्तु दशभिर्दिनैः । श्लेष्मा- द्वादशभिर्घस्रैः पच्यते वदतांवर! । लङ्घनं लङ्घनीयन्तु कुर्य्याद्दोषानुरूपतः । त्रिरात्रमेकरात्रं वाऽहोरात्रमथ वा ज्वरे । निर्वातसेवनात् स्वेदाल्लङ्घनादुष्णवारिणः । पानादामज्वरे क्षीणे पश्चादौषधमाचरेत्” । आत्रेये- णोक्तम् “ज्वरादौ लङ्घनं प्राक्तं ज्वरमध्ये तु पाच- नम् । ज्वरान्ते भेषजं दद्याज्ज्वरमुक्ते विरेचनम् । दोषशेषस्य पाकार्थमग्नेः सन्धुक्षणाय च । लङ्घितश्चाप्य- दोषश्चेत् यवागूपानमाचरेत् । शालिषष्टिकमुद्गानां यूषं वा शस्तमाचरेत् । पञ्चकोलेन संसिद्धां यवागूं मध्य- लङ्घने । अत्यर्थं लङ्घितं दृष्ट्वा तस्य सन्तर्पणं हितम् । द्राक्षादाडिमखर्जूरपियालैः सपरुषकैः । तर्पणार्हस्य कर्त्तव्यन्तर्पणं ज्वरशान्तये” । अत्र लङ्घनशब्देनानशन- मुच्यते । यत आह सुश्रुतः “आनद्धस्तिमितैर्दोषैर्यावन्तं कालमातुरः । तावत्त्वनशनं कुर्य्यात्ततः संसर्गमाचरेत् । आनद्धस्तिमितैर्दोषैः सम्बद्धः । संसर्गम् औषधान्नादि- प्रसङ्गम्” । यत आह चरकः “चतुःप्रकाराः संशुद्धिः पिपासा मारुतातपौ । पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम् । चतुःप्रकारा संशुद्धिर्वमनञ्च विरेचनम्” । नि- रूहवस्तिशिरोविरेचनानि नत्वनुवासनं तस्य वृंहण- त्वात् । अत्र लङ्घनं कर्षणमित्यर्थः । सुश्रुतः “शरीर- लाघवकरं यद्द्रव्यं कर्म वा पुनः । तं लङ्घनमिति ज्ञेयं वृंहणं तु पृथग्विधम्” । लङ्घनात्कर्षणादन्यत् शरोरपोषकमित्यर्थः” ।


शब्दकल्पद्रुमः

लङ्घनं || क्ली (लङ्घ + ल्युट् ।)
उपवासः । (यथा, सुश्रुते । १ । ४६ । “तत्रामे लङ्घनं कार्य्यं विदग्धे वमनं हितम् । विष्टब्धे स्वेदनं पथ्यं रसशेषे शयीत च ॥” यथा च । “लङ्घनं बृंहणं काले रूक्षणं स्नेहनन्तथा । स्वेदनं स्तम्भनञ्चैव जानीते यः स वै भिषक् ॥” “तदग्निवेशस्य वचो निशम्य गुरुरब्रवीत् । यत्किञ्चिल्लाघवकरं देहे तल्लङ्घनं स्मृतम् ॥” “लघूष्णतीक्ष्णविषदं रूक्षं सूक्ष्मं खरं सरम् । कठिनञ्चैव यद्द्रव्यं प्रायस्तल्लङ्घनं स्मृतम् ॥” “—पिपासा मारुतातपौ । पाचनान्युपवासाश्च व्यायामश्चेति लङ्घनम् ॥” “प्रभूतश्लेष्मपित्तास्रमलाः सन्दुष्टमारुताः । बृहच्छरीरा बलिनो लङ्घनीया विशुद्धिभिः ॥” “त्वग्दोषिणां प्रमीढानां स्निग्धाभिष्यन्दिबृंहि- नाम् । शिशिरे लङ्घनं शस्तमपि वातविकारिणाम् ॥” इति चरके सूत्रस्थाने द्वाविंशेऽध्याये ॥ “ज्वरे लङ्घनमेवादावुपदिष्टमृते ज्वरात् । क्षयानिलभयक्रोधकामशोकश्रमोद्भवात् ॥ आमाशयस्थो हत्वाग्निं सामो मार्गान् पिधा- पयन् । विदधाति ज्वरं दोषस्तदा लङ्घनमाचरेत् ॥ अनवस्थितदोषाग्नेर्लङ्घनं दोषपाचनम् । ज्वरघ्नं दीपनं काङ्क्षारुचिलाघवकारकम् ॥ प्राणाविरोधिना चैनं लङ्घनेनोपपादयेत् । बलाधिष्ठानमारोग्यं यदर्थोऽयं क्रियाक्रमः ॥ तत्तु मारुतक्षुत्तृष्णामुखशोषभ्रमान्विते । कार्य्यं न बाले वृद्धे वा न गर्भिण्यां न दुर्ब्बले ॥ वातमूत्रपुरीषाणां विसर्गे गात्रलाघवे । हृदयोद्गारकण्ठास्यशुद्धौ तन्द्रा क्लमे गते ॥ स्वेदे जाते रुचौ चापि क्षुत्पिपासासहोदये ॥ कृतं लङ्घनमादेश्यं निर्व्यथे चान्तरात्मनि ॥ पर्व्वभेदोऽङ्गमर्द्दश्च कासः शोषो मुखस्य च । क्षुत्प्रणाशोऽरुचिस्तृष्णा दौर्ब्बल्यं श्रोत्रनेत्रयोः ॥ मनसः सम्भ्रमोऽभीक्ष्णमूर्द्ध्ववातस्तमो हृदि । देहाग्निबलहानिश्च लङ्घनेऽतिकृते भवेत् ॥” इति वैद्यकचक्रपाणिसंग्रहे ज्वराधिकारे ॥)
क्रमणम् । (यथा, कुमारे । ५ । ६४ । “यथा श्रुतं वेदविदांवर त्वया जनोऽयमुच्चैः पदलङ्घनोत्सुकः । तपः किलेदं तदवाप्तिसाधनं मनोरथानामगतिर्न विद्यते ॥”)
प्लवनम् । इति मेदिनी । ने, १२० ॥ अग्नि- लङ्घननिषेधो यथा, —
“न चाग्निं लङ्घयेद्धीमान्नोपदध्यादधः क्वचित् । न चैनं पादतः कुर्य्यात् मुखेन न धमेद्वधः ॥” इति कौर्म्मे उपविभागे १५ अध्यायः ॥ (अतिक्रमः । यथा, महाभारते । १ । १५९ । ३६ । “न चाप्यधर्म्मः कल्याण बहुपत्नीकता नृणाम् । स्त्रीणामधर्म्मः सुमहान् भर्त्तुः पूर्ब्बस्य लङ्घने ॥”)
अश्वतृतीयगतिः । यथा, —
“प्लुतन्तु लङ्घनं पक्षिमृगगत्यनुहारकम् ।” इति हेमचन्द्रः ॥ * ॥
(स्त्री, अवमानना । यथा, मार्कण्डेये । १३५ । ३३ । “अन्यस्यापि स्ववंशस्य लङ्घना क्रियते हि या । तां नालं क्षत्त्रियः सोढुं किं पुनः पितृमार- णम् ॥”)



Correction: