वाचस्पत्यम्
लजकारिका || स्त्री लजं लज्जां करोति कृ—ण्वुल् अत इत्त्वम् । लज्जालुलतायाम् हेमच० ।
शब्दकल्पद्रुमः
लजकारिका || स्त्री (लजं लज्जां करोतीव । कृ + ण्वुल् । टापि अत इत्वम् ।) लज्जालुलता । इति शब्दमाला ॥