वाचस्पत्यम्
लज्जा || स्त्री लस्ज भावे अ । अकृत्यप्रवृत्तौ परदर्शने दुष्टत्व- धिया ततो निवृत्तिमाधने चित्तवृत्तिभेदे अमरः ।
शब्दकल्पद्रुमः
लज्जा || स्त्री (लज्जनमिति । लस्ज व्रीडने + “गुरोञ्च हलः ।” ३ । ३ । १०३ । इति अः । टाप् ।)
अन्तःकरणवृत्तिविशेषः । इति नागोजीभट्टः ॥ अकर्त्तव्ये कर्म्मणि परज्ञान- भयम् । लाज् इति भाषा । तत्पर्य्यायः । मन्दाक्षम् २ ह्रीः २ त्रपा ४ व्रीडा ५ । सा अन्यतश्चेत् अपत्रपा ६ । इत्यमरः ॥ मन्दा- स्यम् ७ लज्या ८ व्रीडः ९ व्रीडनम् १० । इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । ४८ । “लज्जा तिरश्चां यदि चेतसि स्या- दसंशयं पर्व्वतराजपुत्त्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्य्यु- र्बालप्रियत्वं शिथिलं चमर्य्यः ॥”)
लज्जालुः । इति राजनिर्घण्टः ॥