वाचस्पत्यम्
लञ्ज || पु० लञ्ज—अच् । १ पदे २ कच्छौ च हेमच० । ३ पुच्छे जटा० संज्ञायां कन् अत इत्त्वम् । लञ्जिका वेश्यायाम् हेमच० ।
वाचस्पत्यम्
लञ्ज || भासने अद० चु० उभ० अक० सेट् । लञ्जयति ते अललञ्जत् त ।
शब्दकल्पद्रुमः
लञ्ज || त् क भासने । इति कविकल्पद्रुमः ॥ (अदन्त-चुरा०-पर०-अक०-सेट् ।)
क, लञ्ज- यति । भासनं दीप्तिः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लञ्जः || पुं, (लञ्जयति शोभते इति । लञ्ज + अच् ।)
पदः । कच्छः । इति हेमचन्द्रः ॥ पुच्छः । इति जटाधरः ॥