शब्दकल्पद्रुमः
लट्वा || स्त्री (लट् + क्वन् । टाप् ।)
करञ्जमेदः । नाटाकरञ्जा इति भाषा । वाद्यभेदः । पक्षि- विशेषः । ग्रामचटक इति ख्यातः । इति मेदिनी । वे, २२ ॥ कुसुम्भम् । इति हेमचन्द्रः ॥ भ्रमरकः । भोङरी इति ख्यातः । इत्यमर- भरतौ ॥ (शिली । इति हारावली । २५६ ॥ तूलिका । द्यूतम् । यथा, —
“लट्वा तु तूलिका ख्याता लट्वा द्यूतेऽपि दृश्यते ॥” इति व्याडिरभसौ ।” इति उणादिवृत्तौ उज्ज्वलः । १ । १५१ ॥)