वाचस्पत्यम्
लड || अत्यन्तपालने चु० लभ० सक० सेट् । लाडयति—ते अलील- डत् त ।
वाचस्पत्यम्
लड || उत्क्षेपणे वा चुरा० उभ० पक्षे भ्वा० पर० सक० सेट् इदित् । लण्डयति—ते लण्डति । अललण्डत्—त अलण्डीत् ।
वाचस्पत्यम्
लड || उत्पीडने सक० जिह्वाचालने अक० भ्वा० पर० सेट् । लडति अलाडीत्—अलडीत् घटा० । लडयति ।
वाचस्पत्यम्
लड || क्षेपणे अद० चु० उभ० सक० सेट् । लडयति ते अललडत् त
वाचस्पत्यम्
लड || भाषणे द्विक० वा चु० उभ० पक्षे भ्वा० पर० सेट् इदित् । लण्डयति—ते लण्डति । अललण्डत्—त अलण्डीत् ।
वाचस्पत्यम्
लड || विलासे भ्वा० पर० अक० सेट् । लडति अला(ड)डीत्
वाचस्पत्यम्
लड || व्याप्तौ चु० उभ० सक० सट् । लाडयति—ते अलीलडत् त ।
शब्दकल्पद्रुमः
लड || इ कि भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०- पक्षे भ्वा०-पर०-सक०-सेट् ।)
इ, लण्ड्यते । कि, लण्डयति लण्डति । भाषणं कथनम् । अयं कैश्चिन्न मन्यते । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लड || ओ इ कि उत्क्षेपणे । इति कविकल्पद्रुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-सेट् ।)
ओ, लण्डिनः । अनुबन्धबलादिम्व्यवधानेऽपि निष्ठा- तस्य नत्वम् । अस्मात् निष्ठायामिम् न स्यादि- त्येके । लड्न इति । इ, लण्ड्यते । कि, लण्डयति लण्डति तण्डुलं लोकः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लड || क उपसेवे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।)
उपसेव इह अत्यन्तपाल- नम् । क, लालयेत् पञ्चवर्षाणि पुत्त्रमिति अत्र डलयोरेकत्वाल्लत्वम् । कल्पनायामस्य प्रयोगः । इति रमानाथः । लाडयति लतां वायुः । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लड || क ङ वीप्से । इति कविकल्पद्रुमः ॥ (चुरा०- आत्म०-सक०-सेट् । क ङ, लाडयते । लाभ एव इत्यन्य । विशेषेण आप्तुमिच्छा व्रीप्सा । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लड || त् क क्षेपे । इति कविकल्पद्रुमः ॥ (अदन्त- चुरा०-पर०-सक०-सेट् ।)
लडयति । अल- लाडत् । इति दुर्गादासः ॥
शब्दकल्पद्रुमः
लड || म उन्मन्थनजिह्वयोः । इति कविकल्पद्रुमः ॥ (भ्वा०-पर०-अक०-क्वचित् पीडनादौ सक०- सेट् ।)
उन्मन्थनं पीडितीभावः उत्क्षिप्ती- भावश्च । लडति लता वायुना पीडिता उत्- क्षिप्ता वा स्यादित्यर्थः । जिह्वा तद्बिषयक्रिया । लडति जिह्वा स्पन्दनवती स्यादित्यर्थः । म, लडयति । लडयति त्वचमुल्ललयत्यमूनिति श्रीहर्षः । पीडयतीत्यर्थः । कवाटघ्नीमिन्दुः किरणलहरीमुल्ललयतीति मुरारिः । उत्- क्षिपतीत्यर्थः । उभयत्र डलयोरेकत्वाल्लत्वम् । केचित्तु जिह्वोन्मन्थने इति पठित्वा जिह्वाया उन्मन्थनं उत्क्षेपणमिति व्याख्याय लडति जिह्वां सर्प इत्येवोदाहरन्ति । इति दुर्गा- दासः ॥
शब्दकल्पद्रुमः
लड || विलासे । इति कविकल्पद्रुमः ॥ (भ्वा०- पर०-अक०-सेट् ।)
लडति बाला । इति दुर्गा- दासः ॥