शब्दकल्पद्रुमः
लण्ड्रजः || त्रि (लण्ड्रे तदाख्यदेशे जायते इति । जन् + डः ।)
लण्ड्रदेशजातः । यथा, —
“पूर्ब्बाम्नाये नवशत्तं षडशीतिः प्रकीर्त्तिताः । फिरङ्गभाषया तन्त्रास्तेषां संसाधनात् भुवि ॥ अधिपा मण्डलानाञ्च संग्रामेष्वपराजिताः । इंरेजा नव षट् पञ्च लण्ड्रजाश्चापि भाविनः ॥” इति मेरुतन्त्रे २३ प्रकाशः ॥ * ॥
लण्डस्तु अधुना लण्डन् इति ख्यातः । इंरेजानां राजधानी च ॥