वाचस्पत्यम्
लताकस्तूरिका || स्त्री लतायां कस्तूरीव सुगन्धत्वात् इवार्थे कन् । कस्तूरीगन्धयुक्तपत्रयुतायां लतायाम् राजवल्ल० । “लताकस्तूरिका तिक्ता हृद्या शीतास्यरोगहृत्” ।
शब्दकल्पद्रुमः
लताकस्तूरिका || स्त्री (लतारूपा कस्तूरी तद्बद्- गन्धत्वात् । ततः स्वार्थे कन् ।)
लताकस्तूरी । तत्पर्य्यायः । कटुः २ दक्षिणदेशजा ३ । अस्या गुणाः । तिक्तत्वम् । स्वादुत्वम् । वृष्यत्वम् । हिमत्वम् । लघुत्वम् । चक्षुष्यत्वम् । छेदनीत्वम् । श्लेष्मतृष्णावस्त्यास्यरोगनाशित्वञ्च । इति पथ्या- पथ्यविवेकः ॥ अपि च । “लताकस्तूरिका तिक्ता हृद्या शीतास्य- रोगनुत् ॥” इति राजवल्लभः ॥