शब्दकल्पद्रुमः
लतामणिः || पुं, (लतासदृशो मणिः ।) प्रवालः । इति त्रिकाण्डशेषः राजनिर्घण्टश्च ॥ (प्रवाल- शब्देऽस्य विवरणं ज्ञातव्यम् ॥)