वाचस्पत्यम्
लपित || त्रि० लप—कर्मणि क्त । १ कथिते । भावे क्त । २ कथने न० अमरः ।
शब्दकल्पद्रुमः
लपितं || क्ली (लप् + क्तः भावे ।)
वचनम् । कथिते, त्रि । इत्यमरः ॥ (लपितमस्यास्तीति । अच् । वचनयुक्ते च त्रि । यथा, अथर्व्ववेदे । ४ । ३६ । ९ । “ये मा क्रोधयन्ति लपिता हस्तिनं मशका इव । तानहं मन्ये दुर्हितां जने अल्पशयूनिव ॥”)