शब्दकल्पद्रुमः
लब्धा || स्त्री (लभ् + क्तः । टाप ।) नायिका- भेदः । यथा, — “खण्डितोत्कण्ठिता लब्धा तथा प्रोषितभर्त्तृका । कलहान्तरिता वाससज्जा स्वाधीनभर्त्तृका ॥” इति जटाधरः ॥