संस्कृत-शब्दकोशः

लब्धा लभस

लभ

वाचस्पत्यम्

लभ ||‍ प्राप्तौ सक० भ्वा० आत्म० अनिट् । लभते । अलब्ध । ड्वित् लब्ध्रिमः । षित् लभा । अलिट्यजादावार्द्दधातुके मुम् । आलम्भः उपालम्भः । अनुपसर्गात् घञि तु न लाभः । खलि च सर्वथा दुर्लभः । आ + स्पर्शे बधे च उप + ज्ञानभेदे उप + आ + तिरस्कारे ।


वाचस्पत्यम्

लभ ||‍ शब्देअक० भ्वा० आत्म० सेट् इदित् । लम्भते अलम्भिष्ट ।


शब्दकल्पद्रुमः

लभ || इ ङ शब्दे । इति कविकल्पद्रुमः ॥ (भ्वा०- आत्म०-अक०-सेट् ।)
इ, लम्भ्यते । ङ, लभते । इति द्र्गादासः ॥


शब्दकल्पद्रुमः

लभ || डु औ ङ ष प्राप्तौ । इति कविकल्पद्रुमः ॥ (भ्वा०-आत्म०-सक०-अनिट् ।)
डु, लब्ध्रिमम् । औ, लब्धा । ङ, लभते । ष, लभा । लभन्ति पुनरुत्थानमिति गणकृतानित्यत्वादिति रमा- नाथः । वस्तुतस्तु लभते लभः पचादित्वादन् ततो लभ इवाचरतीति क्वौ साध्यम् । इति दुर्गादासः ॥



Correction: