वाचस्पत्यम्
लम्पट || पु० रस—अटन् पुक् च रस्य लः । परस्त्रीषु १ लोलुपे, मेदि० । २ आसक्ते च ।
शब्दकल्पद्रुमः
लम्पटः || पुं, षिड्गः । इति लम्पाकशब्दार्थे मेदिनी । के, १४९ ॥ (यथा, कथासरित्सागरे । ४७ । १०१ । “अथेतराब्रवीन्मैवं यद्यपि स्त्रीषु लम्पटः । तथापि न स दुःखेऽस्मिन्नीदृशः स्यात्तथा- विधः ॥”)
आसक्तः । यथा, —
“यथैहिकामुष्मिककामलम्पटः सुतेषु दारेषु धनेषु चिन्तयन् । शङ्केत विद्वान् कुकलेवरात्ययाद्- यस्तस्य यत्नः श्रम एव केवलम् ॥” इति श्रीभागवते ५ स्कन्धे १९ अध्यायः ॥