वाचस्पत्यम्
लम्ब || पु० लवि—अच् । १ नर्त्तके २ कान्ते ३ अङ्गे च उणा० । ४ उत्कोचे हेमच० अङ्कशास्त्रोक्ते त्रिभुजादिक्षेत्रे मुज- कर्णयोर्मध्यस्थे लम्बमाने ५ सूत्रे च “स्वाबाधाभुजकृत्यो- रन्तरमूलं प्रजायते लम्बः । लम्बगुणं भूम्यर्द्धं स्पष्टं त्रि भुजे फलं भवति” लीला० । ७ दीर्घे ८ लम्बमाने च त्रि० ।
शब्दकल्पद्रुमः
लम्बः || पुं, (लम्बते इति । लबि अवस्रंसने + अच् ।)
नर्त्तकः । अङ्गम् । कान्तः । इति संक्षिप्तसारोणादिवृत्तिः ॥ उत्कोचः । यथा, “प्राभृतं ढौकनं लम्बोत्कोचः कोशलिकामिषे । उपाच्चारः प्रदानन्दा हारो ग्राह्यायने अपि ॥” इति हेमचन्द्रः ॥ अक्षभेदः । यथा, —
“चरलम्बगमा भेदाः पाटकोऽक्षादिचालने ॥” इति शब्दमाला ॥ क्षेत्रादौ लम्बमानरेखा सूत्रं वा । यथा, —
“त्रिभुजे भुजयोर्योगस्तदनन्तरगुणो भुवाहृतो लब्ध्या । द्विस्था भूरूनयुता दलितावाधे तयोः स्याताम् ॥ स्वावाधाभुजकृत्योरन्तरमूलं प्रजांयते लम्बः । लम्बगुणं भूम्यर्द्धं स्पष्टं त्रिभुजे फलं भवति ॥” उदाहरणम् । “क्षेत्रे मही मनुमिता त्रिभुजे भुजौ तु यत्र त्रयोदशतिथिप्रमितौ हि यस्य । तत्रावलम्बकमथो कथयाववाधे क्षिप्रं तथा च समकोष्ठमितिं फलाख्याम् ॥” न्यासः । भूः १४ भुजौ १३ । १५ लब्धे आवाधे ५ । ९ । लब्धो लम्बश्च १२ क्षेत्र- फलञ्च ८४ । इति लीलावती ॥ (दैत्यविशेषः । यथा, हरिवंशे । ४३ । २२ । “लम्बस्तु लम्बमेघाभः प्रलम्बाम्बरभूषणः । दैत्यव्यूहगतो भाति सनीहार इवांशुमान् ॥”)
त्रि, दीर्घः । लम्बा इति भाषा । यथा, —
“दूरतः शोभते मूर्खो लम्बशाटपटावृतः । तावच्च शोभते मूर्खो यावत् किञ्चिन्न भाषते ॥” इति चाणक्यशतकम् ॥ (लम्बमानः । यथा, रघुः । ६ । ६० । “पाण्ड्योऽयमंसार्पितलम्बहारः कॢप्ताङ्गरागो हरिचन्दनेन । आभाति बालातपरक्तसानुः सनिर्झरोद्गार इवाद्रिराजः ॥”)