संस्कृत-शब्दकोशः

लम्बकर्ण लम्बदन्ता

लम्बकेश

वाचस्पत्यम्

लम्बकेश ||‍ त्रि० लम्ब दीर्घः केशो यस्य । दीर्घामयुक्ते कुशमये विष्टरे । “ऊर्ध्वकेशो भवेत् ब्रह्मा लम्बकेशस्तु विष्टरः । दक्षिणावर्त्तको व्रह्मा वामावर्त्तस्तु विष्टरः” स० त० । “केशोऽत्राग्रम्” रघु० । २ दीर्घकेशयुक्ते त्रि० । कर्म० । ३ दीर्घे केशे च पु० ।


शब्दकल्पद्रुमः

लम्बकेशः || पुं, (लम्बः केश इवाग्रभागो यस्य ।)
विष्टरः । स तु विवाहकाले वरोपवेशनार्थं सार्द्धद्वितयवामावर्त्तवलिताधोमुखा असंख्यात- दर्भाः । यथा, —
“ऊर्द्धकेशो भवेत् ब्रह्मा लम्बकेशस्तु विष्टरः । दक्षिणावर्त्तको ब्रह्मा वामार्त्तस्तु विष्टरः ॥” इति संस्कारतत्त्वम् ॥ केशोऽत्राग्रम् । इति प्रायश्चित्ततत्त्वे गङ्गा- माहात्म्ये प्रतिनिहतदर्भवटुस्नानप्रकरणे लिखि- तम् ॥ * ॥
दीर्घकेशयुक्ते, त्रि ॥



Correction: