वाचस्पत्यम्
लम्बकर्ण || पु० लम्बः कर्णो यस्य । १ छागे मेदि० २ अङ्कोट- वृक्षे पु० ३ हस्तिनि ४ राक्षसे च पुंस्त्री० शब्दच० ५ श्येनप क्षिणि राजनि० । ६ लम्बश्रोत्रयुते त्रि० । कर्म० । ७ लम्ब माने श्रोत्रे पु० । सर्वत्र स्त्रियां जातित्वात् ङीष् ।
शब्दकल्पद्रुमः
लम्बकर्णः || पुं, (लम्बौ कर्णा यस्य ।)
छागः । अङ्कोठवृक्षः । इति मेदिनी । णे, १०७ ॥ राक्षसः । हस्ती । इति शब्दरत्नावली ॥ श्येन- पक्षी । इति राजनिर्घण्टः ॥ (शशः । तद्यथा, अथ विलेशयेषु तत्र शशः स्यात् । “लम्बकर्णः शशः शूली लोमकर्णो विले- शयः ॥” इति वैद्यकम् ॥ लम्बःकर्णः इति कर्म्मधारये ।)
दीर्घश्रोत्रम् ॥ तद्युक्ते, त्रि । (यथा, महाभारते । ९ । ४६ । ३४ । “लम्बोदर्य्यो लम्बकर्णास्तथा लम्बपयोधराः ॥”)