संस्कृत-शब्दकोशः

लर्व ललज्जिह्व

लल

वाचस्पत्यम्

लल ||‍ इच्छायां अद० चु० उभ० सक० सेट् । ललयति ते अल- ललत् त ।


वाचस्पत्यम्

लल ||‍ इच्छायां चु० उभ० सक० सेट । लालयति—ते अलीललत् त


शब्दकल्पद्रुमः

लल || ङ क ईप्सायाम् । इति कविकल्पद्रुमः ॥ (चुरा०-आत्म०-सक०-सेट् ।)
क ङ, लालयते । ईप्सा आप्तुमिच्छा । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

लल || त् क ईप्से । इति कविकल्पद्रुमः ॥ (अदन्त चुरा०-पर०-सक०-सेट् ।)
ईप्सा इति आप- धातोः सनन्तस्य रूपम् । शंस्त्याद इत्यकारेण सरूपोऽपि अल् कथं न बाध्यते इति चेन्न स्त्रीविहितप्रत्ययैः क्वचित् सरूपोऽपि न वाध्यते इत्यस्य वाच्यत्वात् अन्यथा कारणाकारण- मित्यादयोऽपि न स्युः । एवं वक्ष्यमाणेषु व्रीड लज्जे इत्यादिष्वपि बोध्यम् । ललयति धनं लोकः । इति दुर्गादासः ॥



Correction: