वाचस्पत्यम्
ललन || न० लड—ल्युट् डस्य लः । १ चालने । ३ केलौ हेमच० ३ बाले ४ सालवृक्षे ५ पियालवृक्षे च पु० राजनि० । चु० लल—ल्यु । ६ जिह्वार्या ७ नार्य्याञ्च स्त्री मेदि० ।
शब्दकल्पद्रुमः
ललनं || क्ली (लल + ल्युट् ।)
केलिः । इति हेम- चन्द्रः ॥ चालनम् । इति नागोजीभट्टः ॥ यथा, —
“काली करालवदना विनिष्क्रान्तासिपाशिनी । विचित्रखट्टाङ्गधरा नरमालाविभूषणा ॥ द्वीपिचर्म्मपरीधाना शुष्कमांसातिभैरवा । अतिविस्तारवदना जिह्वाललनमीषणा ॥” इति देवीमाहात्म्यम् ॥
शब्दकल्पद्रुमः
ललनः || पुं, (लल्यते ईप्स्यते इति । लल + कर्म्मणि ल्युट् ।)
बालः । सालः । प्रियालः । इति राजनिर्घण्टः ॥