संस्कृत-शब्दकोशः

ललनाप्रिय ललाक

ललन्तिका

वाचस्पत्यम्

ललन्तिका ||‍ स्त्री लड—झच् स्वार्थे क अत इत्त्वम् डस्य लः । नाभिदेशपर्य्यन्तं लम्बमाने १ माल्यादौ अमरः । २ गोधायां शब्दच० ।


शब्दकल्पद्रुमः

ललन्तिका || स्त्री (ललन्त्येव । स्वार्थे कन् ।)
नाभिलम्बकण्ठिकादिः । तत्पर्य्यायः । लम्बनम् २ । इत्यमरः ॥ गोधा । इति शब्दमाला ॥



Correction: