वाचस्पत्यम्
ललाटन्तप || पु० ललाटं तापयति तप—णिक् खच्—ह्रस्वः । १ सूर्य्ये सि० कौ० । २ ललाटतापके त्रि० “लिपिर्ललाट- न्तपनिष्ठराक्षरा” नैषधम् ।
शब्दकल्पद्रुमः
ललाटन्तपः || त्रि (ललाटं तपतीति । ललाट + तप + “असूर्य्यललाटयोर्दृशितपोः ।” ३ । २ । ३६ । इति खश् । मुम् ।)
ललाटतापकः । “ललाटन्तपः सूर्य्यः ।” इति सिद्धान्तकौमुदी ॥ (यथा, रघुः । १३ । ४१ । “हविर्भुजामेधवतां चतुर्णां मध्ये ललाटन्तपसप्तसप्तिः । असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥” यथा च, नैषधे । १ । १३८ । “कथं विधातर्म्मयि पाणिपङ्कजात् तव प्रिया शैत्यमृदुत्वशिल्पिनः । वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥”)