संस्कृत-शब्दकोशः

ललामक ललामी

ललामन्

शब्दकल्पद्रुमः

ललाम || [न्] क्ली, ललामम् । यथाह रुद्रः । “प्रधानध्वजशृङ्गेषु पुण्ड्रबालधिलक्ष्मसु । भूषावाजिप्रभावेषु ललामं स्यात् ललाम च ॥” (प्रधाने । यथा, रघुः । ५ । ६४ । “तत्र स्वयंवरसमाहृतराजलोकं कन्याललाम कमनीयमजस्य लिप्सोः ॥” पुरुषः । इति रघुटीकायां मल्लिनाथधृत- यादवः । ५ । ६४ ॥)



Correction: