संस्कृत-शब्दकोशः

ललिता लव

ललितासप्तमी

वाचस्पत्यम्

ललितासप्तमी ||‍ स्त्री ललिताप्रिया सप्तमी । ललितापूजाङ्गे १ भाद्रशुक्लसप्तम्याम्, तद्दिनकर्त्तव्ये २ व्रतभेदे च ।


शब्दकल्पद्रुमः

ललितासप्तमी || स्त्री (ललिताख्या सप्तमी ।)
भाद्रशुक्लसप्तमी । तत्र कुक्कुटीव्रतं कार्य्यम् । यथा भविष्ये । “भाद्रे मासि सिते पक्षे सप्तम्यां नियमेन या । स्नात्वा शिवं लेस्वयित्वा मण्डले च सहाम्बिकम् । पूजयेच्च तदा तस्यां दुष्प्रापं नैव विद्यते ॥” इति कुक्कुटीव्रतत्वेन ख्यातम् । इति तिथ्यादि- तत्त्वम् ॥ * ॥
तद्विधिर्यथा । तत्रादौ स्वस्तिवाचनपूर्ब्बकं सङ्कल्पं कुर्य्यात् । ॐ अद्येत्यादि भाद्रे मासि शुक्ले पक्षे सप्तम्यान्तिथौ यावज्जीवनपर्य्यन्तं अमुकगोत्रा श्रीमदमुकी शिवदुर्गाप्रीतिकामा प्रतिवर्षीयभाद्रशुक्लसप्तम्यां गणेशादिदेवता- पूजापूर्ब्बकशिवपार्व्वतीपूजायावज्जीवनडोरक- धारणभविष्यपुराणोक्तव्रतकथाश्रवणरूपललि- तासप्तमीव्रतमहं करिष्ये । ततः सङ्कल्प- सूक्तं पठित्वा सामान्यार्घ्यं विधाय गणेशादीन् संपूज्य भूतशुद्ध्यादिकं विधाय मण्डलादिषु पूजामारभेत । ततो ध्यात्वा स्वशिरसि पुष्पं दत्त्वा मानसोपचारैः संपूज्य अर्घ्यं संस्थाप्य पुनर्ध्यात्वा आवाहयेत् । शिवपूजाविधिना शिवं दुर्गापूजाविधिना दुर्गाञ्च यथाशक्त्युप- चारैः संपूज्य आवरणदेवान् पूजयेत् । ततो ऽष्टग्रन्थियुक्तडोरकं दुग्धेन सिक्तं शिवदुर्गाभ्यां अर्पयित्वा तत् डोरकं वामकरे बद्ध्वा भोज्य- मुत्सृज्य कथां शृणुयात् । अष्टफलानि दद्यात् । ततो दक्षिणां दद्यात् ॥ * ॥
अथ कथा । श्रीकृष्ण उवाच । “लोमशो नांम देवर्षिर्मथुरामागतः पुरा । सोऽर्च्चितो वसुदेवेन देवक्या च युधिष्ठिर ! ॥ उपविष्टः कथाः पुण्याः कथयामास वै तदा । ततः कथयितुं भूयः कथामेतां प्रचक्रमे ॥ कंसेन निहताः पुत्त्रा जाता जाताः पुनः पुनः । मृतवत्सा देवकि ! त्वं पुत्त्रदुःखेन दुःखिता ॥ यथा चन्द्रमुखी दीना बभूव नहुषप्रिया । तथा त्वं देवकी भद्रे पुत्त्रदुःखेन दुःखिता ॥ पश्चाच्चीर्णव्रता सा तु बभूवाक्षयपुत्त्रिका । त्वमेव देवकी देवि ! भविष्यसि न संशयः ॥ देवक्युवाच । का सा चन्द्रमुखी दीना बभूव नहुषप्रिया । कथं चीर्णव्रतं सम्यक् तस्याः सन्ततिकारणम् ॥ लोमश उवाच । अयोध्यायां पुरा राजा नहुषो नाम विश्रुतः । तस्य राज्ञो महादेवी नाम्ना चन्द्रमुखी प्रिया ॥ पुरोहितस्य तस्यैव पत्नी माला च नामिका । तयोरासीद्दृढप्रीतिः स्पृहणीया परस्परम् ॥ अथ तेऽपि च मित्रिण्यौ स्नानार्थं सरयूजले । प्राप्ते प्राप्तास्तु तत्रैव बहुशो नगराङ्गनाः ॥ स्नातास्ता मण्डलं चक्रुस्तन्मध्ये व्यक्तरूपिणम् । लेखयित्वा शिवं शान्तमुमया सह शङ्करम् ॥ गन्धपुष्पाक्षतैर्भक्त्या पूजयित्वा यथाविधि । प्रणन्य शिरसा भक्त्या दृष्टास्ताभ्यां वरस्त्रियः ॥ किमिदं क्रियते साध्व्यः कथ्यतां यदि रोचते । कदा वा क्रियते किं वा फलं सम्यक् तदुच्यताम् ॥ स्त्रिय ऊचुः । पूजितोऽस्माभिरेतल्तिन् पार्व्वत्या सह शङ्करः । बद्ध्वा सूत्रमिदं शुभ्रं शिवस्यात्मा निवेदितः ॥ धारणीयमिदं तावद्यावत् प्राणस्य धारणम् । तासान्तु तद्वचः श्रुत्वा ते कृत्वा मानसं तथा ॥ कृत्वा च सम्मतिं तत्र बद्ध्वा दोर्भ्यां सुडोरकम् । ततस्ताः स्वगृहं जग्मुः सखीभिः परिवारिताः ॥ कालेन महता तत्र विस्मृतं तद्व्रतं नृप ! । प्रमत्तया चन्द्रमुख्या विस्मृतञ्च सुडोरकम् ॥ मृता कैश्चिदहोरात्रैः सा बभूव प्लवङ्गमी । माला च कुक्कुटी जाता त्वसम्यग्व्रतपालनात् ॥ तथैव ते च मित्रिण्यौ जाते जातिस्मरे कुले । सम्भूय भूयस्तत्रैव प्राप्तश्च समयः पुनः ॥ तद्दिने तद्दिने प्राप्ते पुनः काले च ते मृते । अदैवमातृके देशे जाते गोकुलसङ्कुले ॥ राज्ञो जाया बभूवाथ पृथ्वीनाथस्य सा पुनः । ईश्वरी नाम विख्याता सा तु राज्ञोऽतिवल्लभा ॥ अग्निमीलद्विजस्यासीद्भार्य्या भूषणनामिका । पुरोहितस्य कालेन कुक्कुटी बहुपुत्त्रिणी ॥ जातिस्मरा चाष्टपुत्त्रा तथैव चामृतप्रजा । पुनर्निरन्तरा प्रीतिर्बभूवाथ तयोर्द्विज ॥ तत्रेश्वरी पुत्त्रमेकं प्रसूता तञ्च रोगिणम् । नववर्षे तु पञ्चत्वमगात्तत्र युधिष्ठिर ! ॥ तत्र तां भूषणा द्रष्टुमाजगामातिदुःखिता । सखीभावादतिस्नेहादष्टपुत्त्रसमन्विता ॥ अयुक्ताभरणा नित्यं स्वभावेनैव भूषिता । तां दृष्ट्वा पुत्त्रिणीं भव्यां प्रजज्वालेश्वरी रुषा ॥ ततो गृहं प्रेषयित्वा तां सखीं तीव्रमत्सरा । चिन्तयामास सा राज्ञी तस्याः पुत्त्रवधं प्रति ॥ हता हताश्च ये पुत्त्राः पुनर्ज्जीवन्त्यनामयाः । बहुपुत्त्रा जीववत्सा प्रयुक्ताभरणा कथम् । शोभसे ह्यधिकं भद्रे तडित् सौदामिनी यथा ॥ भूषणोवाच । भाद्रे मासि सिते पक्षे सप्तम्यां ललितालये । स्नात्वा शिवं लेखयित्वा मण्डले च सहाम्बि- कम् ॥ संपूज्य विधिवत् प्राप्तं त्रैलोक्ये यच्च विद्यते । तदेव हि व्रतं पूर्ब्बं त्वया सह मया कृतम् ॥ तन्मयाचरितं भक्त्या तेनाहं सुस्थिरा सखि । त्वया नाचरितं सम्यक् दपैध्मातशरीरया ॥ तेन ते सन्ततिश्छिन्ना राज्येऽपि सति दुःखिता । प्रभाव एष कथितो ब्रतस्यास्य मया सखि ! ॥ अर्द्धं तुभ्यं प्रदास्यामि तस्य धर्म्मस्य सुव्रते । सखीभावात् प्रतीच्छ त्वं नात्र कार्य्या विचा- रणा ॥ संपूज्य शङ्करं भक्त्या करे बद्ध्वा सुडोरकम् । यावज्जीवं मया तावत् शिवस्यात्मा निवेदितः ॥ इत्येवं समयं कृत्वा ततः प्रभृति डोरकम् । स्वर्णरूप्यमयं वापि करशाखासु धारणम् ॥ शङ्करञ्चोमया सार्द्धं सौवर्णं राजतन्तथा । ताम्रपात्रे प्रतिष्ठाप्य ब्राह्मणायोपपादयेत् ॥ पायसं पिष्टकञ्चैव भक्ष्यं भोज्यं प्रयत्नतः । सगोत्रान् भोजयित्वा तु स्वयं भुञ्जीत तत्परम् ॥ मण्डलं सोमसदृशं शिवस्यात्मनिवेदितम् । इत्येवं प्रतिजग्राह व्रतदानफलं ततः ॥ बभूव सुप्रजा साध्वी ईश्वरी भुवनेश्वरी । व्रतस्यास्य प्रभावेन सुपुत्त्रा त्वञ्च देवकि ! ॥ भविष्यसि त्रिलोकेशं पुत्त्रञ्च जनयिष्यसि । इत्येवं श्रावयित्वा च विरराम मुनिस्तदा ॥ जगाम स्वपुरं पार्थ मयाप्येवं तवोदितम् । याः स्त्रियः स्वाचरिष्यन्ति व्रतमेतद्युधिष्ठिर ॥ कुक्वुटाख्यं प्लवङ्गाख्यं देवक्याचरितं शुभम् । तासां सन्ततिविच्छेदो न कदाचिद्भविष्यति ॥ स्त्रियश्चैवाचरिष्यन्ति व्रतमेतत् सुखप्रदम् । अस्मिन् लोके सुखं भुक्त्वा यास्यन्ति शिवमन्दि- रम् ॥ या कुक्कुटीव्रतमिदं प्लवगीसमेतं देवं विभाव्य हृदये च गुरुं निधाय । भक्त्या करोति कलुषौधविघातदक्षं साध्वी सदा भवति शोभनजीववत्सा ॥” इति भविष्यपुराणे कुक्कुटीव्रतकथा समाप्ता ॥



Correction: