शब्दकल्पद्रुमः
ललिता || स्त्री (ललित + टाप् ।)
कस्तूरी । दारी । इति राजनिर्घण्टः ॥ नदीविशेषः । यथा, —
“निमिनाम्नस्तु राजर्षेः शापाद्ब्रह्मसुतः पुरा । वशिष्टो ह्यशरीरोऽभूत् शापाच्च निमिनस्तथा ॥ ततो ब्रह्मोपदेशेन निर्जने कामरूपके । सन्ध्याचले तपस्तेपे तस्य विष्णुरभूत्तदा ॥ प्रत्यक्षस्तस्य देवस्य वरदानान्महामुनिः । अमृतान्यवतार्य्याशु कुण्डं कृत्वा गिरेस्तटे । तत्र स्नात्वा च पीत्वा च शरीरं प्राप पूरितम् ॥ तस्मादमृतकुण्डात्तु सन्ध्या नाम नदी वरा । निःसृता तत्र चाप्लुत्य चिरायुरगदो भवेत् ॥ तस्मात् पूर्व्वन्तु कुण्डात्तु ललिताख्या सरिद्वरा । सागराद्दक्षिणात् पूर्ब्बं महादेवावतारिता ॥ वैशाखशुक्लपक्षस्य तृतीयायां नरस्तु यः । कुर्य्याद्वै ललितास्नानं स शम्भुसदनं व्रजेत् ॥ ललितायाः पूर्व्वतीरे भगवान्नाम पर्व्वतः । स्वयं विष्णुर्लिङ्गरूपी तत्रास्ते भगवान् हरिः ॥ ललितायां नरः स्नात्वा द्वादश्यां शुक्लपक्षके । भगवन्तं समारुह्य यो यजेत् परमेश्वरम् । स याति विष्णुभवनं शरीरेण विराजता ॥” इति कालिकापुराणे ८१ अध्यायः ॥ * ॥
गोपीविशेषः । यथा, —
“अखिलरसामृतमूर्त्तिः प्रसृमररुचिरुद्धतारका पालिः । कलितश्यामा ललितो राधाप्रेयान् विधुर्जयति ॥ इति भक्तिरसामृतसिन्धुः ॥ ललिता श्यामला शैव्या पद्मा भद्राश्च श्रूयन्ते ॥ इति तट्टीकायां जीवगोस्वामी ॥ तस्याः स्वरूपं यथा, —
“या दुर्गा सैव ललिता ललिता सैव राधिका । एतासामन्तरं नास्ति सत्यं सत्यं हि नारद ! ॥” इति पाद्मे पातालखण्डे रासलीलायां नारदं प्रति श्रीकृष्णवाक्यम् ॥ रागिणीविशेषः । सा च मेघरागस्य पत्नी । यथा, सङ्गीतदामोदरे । “ललिता मालसी गौडी नाटी देवकिरी तथा । मेघरागस्य रागिण्यो भवन्तीमाः सुमध्यमाः ॥” (सा तु हनूमन्मते हिन्दोलरागस्य पत्नी । सोमे- श्वरमते वसन्तस्य पत्नी । यथा, संगीतदर्पणे । “वेलावली रामकिरी देशाख्या पटमञ्जरी । ललिता सहिता एता हिन्दोलस्य वराङ्गनाः ॥” “देशी देवकिरी चैव वराटी तोडिका तथा । ललिता चाथ हिन्दोली वसन्तस्य वराङ्गनाः ॥” अस्या ध्यानादिकमाह तत्रैव । अथ ललिता । रि-प-वर्ज्या च ललिता औडवा सत्रया मता । मूर्च्छना शुद्धमध्या स्यात् सम्पूर्णां केचिदूचिरे । धैवतत्रयसंयुक्ता द्वितीया ललिता मता ॥” ध्यानम् । यथा, —
“प्रफुल्लसप्तच्छदमाल्यकण्ठा सुगौरकान्तिर्युवती सुदृष्टिः । विनिश्वसन्ती सहसा प्रभाते विलासवेशा ललिता प्रदिष्टा ॥” उदाहरणम् । स ग म ध नि स । अथवा, — स रि ग म प ध नि स । इति प्रथमा ॥ ध नि स ग म ध । इति द्वितीया ॥ इति ललिता ॥)