शब्दकल्पद्रुमः
लवणा || स्त्री (लुनाति या । लू + ल्युः । टाप् ।) नदीभेदः । दीप्तिः । इति मेदिनीशब्दरत्ना- वल्यौ ॥ महाज्योतिष्मती । इति राजनिर्घण्टः ॥