संस्कृत-शब्दकोशः

लवनी लवाक

लवली

वाचस्पत्यम्

लवली ||‍ स्त्री० लवं लेशं लाति—ला क गौ० ङीष् । (नोयाड) वृक्षे राजनि० ।


शब्दकल्पद्रुमः

लवली || स्त्री (लवं लेशं लातीति । ला + कः । गौरादित्वात् ङीष् ।)
फलवृक्षविशेषः । नोयाडि इति भाषा । तत्पर्य्यायः । सुगन्ध- मूला २ शन्दुः ३ कोमलवल्कला ४ । इति राजनिर्घण्टः ॥ तस्य फलगुणाः । हृद्यत्वम् । सुगन्धित्वम् । कफवातनाशित्वञ्च । इति राज- वल्लभः ॥ “लवलीफलमस्रार्शोवातपित्तहरं लघु ॥” इति केचित् ॥ (यथा, राजेन्द्रकर्णपूरे । ४७ । “कृत्वा वेलापुलिनलवलीपल्लवग्रासगोष्ठीं दिङ्मातङ्गाः सममथ सरिन्नाथपाथः पिबन्ति ॥”)



Correction: