शब्दकल्पद्रुमः
लवाणकः || पुं, (लूयतेऽनेनेति । लू + “आणको लूधूशिन्धिधाञ्भ्यः ।” उणा० ३ । ८३ । इति आणकः ।) दात्रादिः । इत्युणादिकोषः ॥